|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.170. अध्यायः 170
Mahabharata - Shanti Parva - Chapter Topics
गौतमेन स्वस्यानर्हत्वं जानतापि विरूपाक्षेण वकराजगौरवात्प्रदत्तं धनभारमुदूह्य सायं पुनर्बकालयं प्रत्यागमनम्॥ 1॥ तत्र परेद्युः स्वभवनं जिगमिपुणा गोतमेन पार्थयार्थं रात्रौ वकवधनिर्धारणम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-170-0x(5863)(71804)
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम्।
पूजितो राक्षसेन्द्रेण निपसादासनोत्तमे॥ 12-170-1(71805)
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम्।
पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत्॥ 12-170-2(71806)
ब्रह्मवर्चमहीनस्य स्वाध्यायाद्विरतस्य च।
गोत्रमात्रविदो राजा निवामं समपृच्छत॥ 12-170-3(71807)
राक्षम उवाच। 12-170-4x(5864)
क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते।
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम्॥ 12-170-4(71808)
गौतम उवाच। 12-170-5x(5865)
मध्यदेशप्रसूतोऽहं वासो मे शवरालये।
शूद्री पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते॥ 12-170-5(71809)
भीष्म उवाच। 12-170-6x(5866)
ततो राजा विममृशे कथं कार्यमिदं भवेत्।
कथं वा सुकृतं मे स्यादिति वुद्ध्याऽन्वचिन्तयन्॥ 12-170-6(71810)
अयं वै जन्मना विप्रः सुहृत्तम्य महात्मनः।
संप्रेपितश्च तेनायं काश्यपेन महात्मना॥ 12-170-7(71811)
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा।
भ्राता मे बान्धवश्चासौ सखा चैव प्रियो मम॥ 12-170-8(71812)
कार्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः।
तत्रायमपि भोक्ता तु देयमस्मै च मे धनम्॥ 12-170-9(71813)
स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः।
संकल्पितं चैव धनं किं विचार्यमतः परम्॥ 12-170-10(71814)
ततः सहस्रं विप्राणां विदुषां समलंकृतम्।
स्नातानामनुलिप्तानामहतक्षौमवाससाम्॥ 12-170-11(71815)
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशांपते।
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 12-170-12(71816)
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात्।
भूमौ वरकुशाः स्तीर्णाः प्रेष्यैर्भरतसत्तम॥ 12-170-13(71817)
तासु ते पूजिता राज्ञा निपण्णा द्विजसत्तमाः।
निलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः॥ 12-170-14(71818)
विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः।
विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः।
व्यराजन्त महाराज नक्षत्रपतयो यथा॥ 12-170-15(71819)
ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः।
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः॥ 12-170-16(71820)
तस्य नित्यं मदापाढ्यां माध्यां च बहवो द्विजाः।
ईप्सितं भोजनवरं लभन्ते सत्कृतं तथा॥ 12-170-17(71821)
विशेषतस्तु कार्तिक्यां द्विजेभ्यः संप्रयच्छति।
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः॥ 12-170-18(71822)
सुवर्णं रजतं चैव मणीनथ च मौक्तिकान्।
वज्रान्महाधनांश्चैव वैदूर्याजिनराङ्कवान्॥ 12-170-19(71823)
रत्नवन्ति च पात्राणि दक्षिणार्थं स भारत।
दत्त्वा प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः॥ 12-170-20(71824)
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः।
येषुयेषु च भाण्डेषु भुक्तवन्तो द्विजोत्तमाः।
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत॥ 12-170-21(71825)
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणवर्षभाः॥ 12-170-22(71826)
ततो महार्हैस्तैस्तेन रत्नैरभ्यर्चिताः शुभैः।
ब्राह्मणा मृष्टवसनाः सुप्रीताः समुदोऽभवन्॥ 12-170-23(71827)
ततस्तान्राक्षसेन्द्रस्तु द्विजानाह पुनर्वचः।
नाना देशागतान्राजा ब्राह्मणाननुमन्य वै॥ 12-170-24(71828)
अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित्।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम्॥ 12-170-25(71829)
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः॥ 12-170-26(71830)
कृच्छ्रात्समुद्वहन्भारं न्यग्रोधं समुपागमत्।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः॥ 12-170-27(71831)
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः।
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः॥ 12-170-28(71832)
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयद्बकः।
पूजां चाप्यकरोद्धीमान्भोजनं च यथाविधि॥ 12-170-29(71833)
ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ॥ 12-170-30(71834)
गौतमश्चिन्तयामास रात्रौ तस्य समीपतः।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया॥ 12-170-31(71835)
गृहीतो लोभमोहाभ्यां दूरं च गमनं मम।
न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम।
किं कृत्वा सुकृतं हि स्यादिति चिन्तापरोऽभवत्॥ 12-170-32(71836)
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन।
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत्॥ 12-170-33(71837)
अयं बकपतिः पार्श्वे मांसराशिचितो महान्।
इमं हत्वा गृहीत्वाऽस्य मांसं यास्य इति प्रभो॥ ॥ 12-170-34(71838)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः॥ 170॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-170-2 ब्रह्मधारणमिति ध. पाठः॥ 12-170-15 विलिप्ताश्चन्दनेन॥ 12-170-25 इष्टतः इष्ट देशम्॥ 12-170-30 ततस्तौ संविदमित्यर्धं झ. पाठे नास्ति। तत्र गौतमश्चिन्तयामासेत्यस्य स्थाने स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा इत्यर्धं वर्तते॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|